| |
|

This overlay will guide you through the buttons:

कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभूजे पृथिवीपालः पृथिवीं एव केवलाम् । । १५.१ । ।
कृत-सीता-परित्यागः स रत्नाकर-मेखलाम् । बुभूजे पृथिवी-पालः पृथिवीम् एव केवलाम् । । १५।१ । ।
kṛta-sītā-parityāgaḥ sa ratnākara-mekhalām . bubhūje pṛthivī-pālaḥ pṛthivīm eva kevalām . . 15.1 . .
लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः । । १५.२ । ।
लवणेन विलुप्त-इज्याः तामिस्रेण तम् अभ्ययुस् । मुनयः यमुना-भाजः शरण्यम् शरण-अर्थिनः । । १५।२ । ।
lavaṇena vilupta-ijyāḥ tāmisreṇa tam abhyayus . munayaḥ yamunā-bhājaḥ śaraṇyam śaraṇa-arthinaḥ . . 15.2 . .
अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं । । १५.३ । ।
अवेक्ष्य रामम् ते तस्मिन् न प्रजह्रुः स्व-तेजसा । त्राण-अभावे हि शाप-अस्त्राः कुर्वन्ति तपसः व्ययम् । । १५।३ । ।
avekṣya rāmam te tasmin na prajahruḥ sva-tejasā . trāṇa-abhāve hi śāpa-astrāḥ kurvanti tapasaḥ vyayam . . 15.3 . .
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां । धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः । । १५.४ । ।
प्रतिशुश्राव काकुत्स्थः तेभ्यः विघ्न-प्रतिक्रियाम् । धर्म-संरक्षणाय एव प्रवृत्तिः भुवि शार्ङ्गिणः । । १५।४ । ।
pratiśuśrāva kākutsthaḥ tebhyaḥ vighna-pratikriyām . dharma-saṃrakṣaṇāya eva pravṛttiḥ bhuvi śārṅgiṇaḥ . . 15.4 . .
ते रामाय वधोपायं आचख्युर्विबुधविषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति । । १५.५ । ।
ते रामाय वध-उपायम् आचख्युः विबुध-विषः । दुर्जयः लवणः शूली विशूलः प्रार्थ्यताम् इति । । १५।५ । ।
te rāmāya vadha-upāyam ācakhyuḥ vibudha-viṣaḥ . durjayaḥ lavaṇaḥ śūlī viśūlaḥ prārthyatām iti . . 15.5 . .
आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः । करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ् । । १५.६ । ।
आदिदेश अथ शत्रुघ्नम् तेषाम् क्षेमाय राघवः । करिष्यन् इव नाम अस्य यथार्थम् अरि-निग्रहाः । । १५।६ । ।
ādideśa atha śatrughnam teṣām kṣemāya rāghavaḥ . kariṣyan iva nāma asya yathārtham ari-nigrahāḥ . . 15.6 . .
यः कश्चन रघूणां हि परं एकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः । । १५.७ । ।
यः कश्चन रघूणाम् हि परम् एकः परंतपः । अपवादे इव उत्सर्गम् व्यावर्तयितुम् ईश्वरः । । १५।७ । ।
yaḥ kaścana raghūṇām hi param ekaḥ paraṃtapaḥ . apavāde iva utsargam vyāvartayitum īśvaraḥ . . 15.7 . .
अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी । ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः । । १५.८ । ।
अग्रजेन प्रयुक्ता आशीः तदा दाशरथिः रथी । ययौ वन्स्तह्लिः पश्यन् पुष्पिताः सुरभीरभीः । । १५।८ । ।
agrajena prayuktā āśīḥ tadā dāśarathiḥ rathī . yayau vanstahliḥ paśyan puṣpitāḥ surabhīrabhīḥ . . 15.8 . .
रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये । पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ् । । १५.९ । ।
राम-आदेशात् अनुपदम् सेना-अङ्गम् तस्य सिद्धये । पश्चात् अध्ययन-अर्थस्य धातोः अधिः इव अभवथ् । । १५।९ । ।
rāma-ādeśāt anupadam senā-aṅgam tasya siddhaye . paścāt adhyayana-arthasya dhātoḥ adhiḥ iva abhavath . . 15.9 . .
आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः । विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान् । । १५.१० । ।
आदिष्ट-वर्त्मा मुनिभिः स गच्छन् तपताम् वरः । विरराज रथ-पृष्ठैः वालखिल्यैः इव अंशुमान् । । १५।१० । ।
ādiṣṭa-vartmā munibhiḥ sa gacchan tapatām varaḥ . virarāja ratha-pṛṣṭhaiḥ vālakhilyaiḥ iva aṃśumān . . 15.10 . .
तस्य मार्गवशादेका बभूव वसतिर्यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने । । १५.११ । ।
तस्य मार्ग-वशात् एका बभूव वसतिः यतस् । रथ-स्वन-उत्कण्ठ-मृगे वाल्मीकीये तपः-वने । । १५।११ । ।
tasya mārga-vaśāt ekā babhūva vasatiḥ yatas . ratha-svana-utkaṇṭha-mṛge vālmīkīye tapaḥ-vane . . 15.11 . .
तं ऋषिः पूजयां आस कुमारं क्लान्तवाहनं । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः । । १५.१२ । ।
तम् ऋषिः पूजयान् आस कुमारम् क्लान्त-वाहनम् । तपः-प्रभाव-सिद्धाभिः विशेष-प्रतिपत्तिभिः । । १५।१२ । ।
tam ṛṣiḥ pūjayān āsa kumāram klānta-vāhanam . tapaḥ-prabhāva-siddhābhiḥ viśeṣa-pratipattibhiḥ . . 15.12 . .
तस्यां एवास्य यामिन्यां अन्तर्वत्नी प्रजावती । सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः । । १५.१३ । ।
तस्याम् एव अस्य यामिन्याम् अन्तर्वत्नी प्रजावती । सुतौ असूत संपन्नौ कोश-दण्डौ इव क्षितिः । । १५।१३ । ।
tasyām eva asya yāminyām antarvatnī prajāvatī . sutau asūta saṃpannau kośa-daṇḍau iva kṣitiḥ . . 15.13 . .
संतानश्रवणाद्भ्रातुः स्ॐइत्रिः स्ॐअनस्यवान् । प्राञ्जलिर्मुनिं आमन्त्र्य प्रातर्युक्तरथो ययौ । । १५.१४ । ।
संतान-श्रवणात् भ्रातुः सः ॐ इत्रिः । प्राञ्जलिः मुनिम् आमन्त्र्य प्रातर् युक्त-रथः ययौ । । १५।१४ । ।
saṃtāna-śravaṇāt bhrātuḥ saḥ oṃ itriḥ . prāñjaliḥ munim āmantrya prātar yukta-rathaḥ yayau . . 15.14 . .
स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात्करं इवादाय सत्त्वराशिं उपस्थितः । । १५.१५ । ।
स च प्राप मधु-उपघ्नम् कुम्भीनस्याः च कुक्षि-जः । वनात् करम् इव आदाय सत्त्व-राशिम् उपस्थितः । । १५।१५ । ।
sa ca prāpa madhu-upaghnam kumbhīnasyāḥ ca kukṣi-jaḥ . vanāt karam iva ādāya sattva-rāśim upasthitaḥ . . 15.15 . .
धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः । । १५.१६ । ।
धूम-धूम्रः वसा-घन्धी ज्वाला-बभ्रु-शिरोरुहः । क्रव्याद्-गण-परीवारः चिता-अग्निः इव जङ्गमः । । १५।१६ । ।
dhūma-dhūmraḥ vasā-ghandhī jvālā-babhru-śiroruhaḥ . kravyād-gaṇa-parīvāraḥ citā-agniḥ iva jaṅgamaḥ . . 15.16 . .
अपशुलं तं आसाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां । । १५.१७ । ।
तम् आसाद्य लवणम् लक्ष्मण-अनुजः । रुरोध संमुखीनः हि जयः रन्ध्र-प्रहारिणाम् । । १५।१७ । ।
tam āsādya lavaṇam lakṣmaṇa-anujaḥ . rurodha saṃmukhīnaḥ hi jayaḥ randhra-prahāriṇām . . 15.17 . .
नातिपर्याप्तं आलक्ष्य मत्कुक्षेरद्य भोजनं । दिष्ट्या त्वं असि मे धात्रा भीग्तेनेवोपपादितः । । १५.१८ । ।
न अति पर्याप्तम् आलक्ष्य मद्-कुक्षेः अद्य भोजनम् । दिष्ट्या त्वम् असि मे धात्रा भीग्तेन इव उपपादितः । । १५।१८ । ।
na ati paryāptam ālakṣya mad-kukṣeḥ adya bhojanam . diṣṭyā tvam asi me dhātrā bhīgtena iva upapāditaḥ . . 15.18 . .
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुं उत्पाटयां आस मुस्तास्तम्बं इव द्रुमं । । १५.१९ । ।
इति संतर्ज्य शत्रुघ्नम् राक्षसः तद्-जिघांसया । प्रांशुम् उत्पाटयां आस मुस्ता-स्तम्बम् इव द्रुमम् । । १५।१९ । ।
iti saṃtarjya śatrughnam rākṣasaḥ tad-jighāṃsayā . prāṃśum utpāṭayāṃ āsa mustā-stambam iva drumam . . 15.19 . .
स्ॐइत्रेर्निशितैर्बाणैरन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः । । १५.२० । ।
सः ओम् इत्रेः निशितैः बाणैः अन्तरा शकलीकृतः । गात्रम् पुष्प-रजः प्राप न शाखी नैरृत-ईरितः । । १५।२० । ।
saḥ om itreḥ niśitaiḥ bāṇaiḥ antarā śakalīkṛtaḥ . gātram puṣpa-rajaḥ prāpa na śākhī nairṛta-īritaḥ . . 15.20 . .
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं । प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितं । । १५.२१ । ।
विनाशात् तस्य वृक्षस्य रक्षः तस्मै महा-उपलम् । प्रजिघाय कृतान्तस्य मुष्टिम् पृथक् इव स्थितम् । । १५।२१ । ।
vināśāt tasya vṛkṣasya rakṣaḥ tasmai mahā-upalam . prajighāya kṛtāntasya muṣṭim pṛthak iva sthitam . . 15.21 . .
ऐन्द्रं अस्त्रं उपादाय शत्रुघ्नेन स ताडितः । सिकताभ्योऽपि हि परां प्रपेदे परमाणुतां । । १५.२२ । ।
ऐन्द्रम् अस्त्रम् उपादाय शत्रुघ्नेन स ताडितः । सिकताभ्यः अपि हि पराम् प्रपेदे परम-अणु-ताम् । । १५।२२ । ।
aindram astram upādāya śatrughnena sa tāḍitaḥ . sikatābhyaḥ api hi parām prapede parama-aṇu-tām . . 15.22 . .
दक्षिणं दोषं उद्यम्य राक्षसस्तं उपाद्रवथ् । एकताल इवोपातपवनप्रेरितो गिरिः । । १५.२३ । ।
दक्षिणम् दोषम् उद्यम्य राक्षसः तम् उपाद्रवथ् । एक-तालः इव उपातप-वन-प्रेरितः गिरिः । । १५।२३ । ।
dakṣiṇam doṣam udyamya rākṣasaḥ tam upādravath . eka-tālaḥ iva upātapa-vana-preritaḥ giriḥ . . 15.23 . .
कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन् । आनिनाय भुवः कम्पं जहाराश्रमवासिनां । । १५.२४ । ।
कार्ष्नेन पत्त्रिना शत्रुः स पतन् । आनिनाय भुवः कम्पम् जहार आश्रम-वासिनाम् । । १५।२४ । ।
kārṣnena pattrinā śatruḥ sa patan . ānināya bhuvaḥ kampam jahāra āśrama-vāsinām . . 15.24 . .
वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः । तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः । । १५.२५ । ।
वयसाम् पङ्क्तयः पेतुः हतस्य उपरि रक्षसः । तद्-प्रतिद्वन्दिनः मूर्ध्नि दिव्याः कुसुम-वृष्टयः । । १५।२५ । ।
vayasām paṅktayaḥ petuḥ hatasya upari rakṣasaḥ . tad-pratidvandinaḥ mūrdhni divyāḥ kusuma-vṛṣṭayaḥ . . 15.25 . .
स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यं आत्मानं इन्द्रजिद्वधशोभिनः । । १५.२६ । ।
स हत्वा लवणम् वीरः तदा मेने महा-ओजसः । भ्रातुः सोदर्यम् आत्मानम् इन्द्रजित्-वध-शोभिनः । । १५।२६ । ।
sa hatvā lavaṇam vīraḥ tadā mene mahā-ojasaḥ . bhrātuḥ sodaryam ātmānam indrajit-vadha-śobhinaḥ . . 15.26 . .
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः । । १५.२७ । ।
तस्य संस्तूयमानस्य चरितार्थैः तपस्विभिः । शुशुभे विक्रम-उदग्रम् व्रीडया अवनतम् शिरः । । १५।२७ । ।
tasya saṃstūyamānasya caritārthaiḥ tapasvibhiḥ . śuśubhe vikrama-udagram vrīḍayā avanatam śiraḥ . . 15.27 . .
उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः । । १५.२८ । ।
उपकूलम् स कालिन्द्याः पुरीम् पौरुष-भूषणः । निर्ममे निर्ममः अर्थेषु मथुराम् मधुर-आकृतिः । । १५।२८ । ।
upakūlam sa kālindyāḥ purīm pauruṣa-bhūṣaṇaḥ . nirmame nirmamaḥ artheṣu mathurām madhura-ākṛtiḥ . . 15.28 . .
या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता । । १५.२९ । ।
या सौराज्य-प्रकाशाभिः बभौ पौर-विभूतिभिः । स्वर्ग-अभिष्यन्द-वमनम् कृत्वा इव उपनिवेशिता । । १५।२९ । ।
yā saurājya-prakāśābhiḥ babhau paura-vibhūtibhiḥ . svarga-abhiṣyanda-vamanam kṛtvā iva upaniveśitā . . 15.29 . .
तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीं । हेम भक्तिमतीं भूमेः प्रवेणीं इव प्रिपिये । । १५.३० । ।
तत्र सौध-गतः पश्यन् यमुनाम् चक्रवाकिनीम् । हेम भक्तिमतीम् भूमेः प्रवेणीम् इव प्रिपिये । । १५।३० । ।
tatra saudha-gataḥ paśyan yamunām cakravākinīm . hema bhaktimatīm bhūmeḥ praveṇīm iva pripiye . . 15.30 . .
सखा दशरथस्याथ जनकस्य च मन्त्रकृथ् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि । । १५.३१ । ।
सखा दशरथस्य अथ जनकस्य च मन्त्रकृथ् । संचस्कार उभय-प्रीत्या मैथिलेयौ यथाविधि । । १५।३१ । ।
sakhā daśarathasya atha janakasya ca mantrakṛth . saṃcaskāra ubhaya-prītyā maithileyau yathāvidhi . . 15.31 . .
स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः । । १५.३२ । ।
स तौ कुश-लव-उन्मृष्ट-गर्भ-क्लेदौ तद्-आख्यया । कविः चकार किल नामतः । । १५।३२ । ।
sa tau kuśa-lava-unmṛṣṭa-garbha-kledau tad-ākhyayā . kaviḥ cakāra kila nāmataḥ . . 15.32 . .
साङ्गं च वेदं अध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयां आस कविप्रथमपद्धतिं । । १५.३३ । ।
स अङ्गम् च वेदम् अध्याप्य किंचिद् उत्क्रान्त-शैशवौ । स्व-कृतिम् आस कवि-प्रथम-पद्धतिम् । । १५।३३ । ।
sa aṅgam ca vedam adhyāpya kiṃcid utkrānta-śaiśavau . sva-kṛtim āsa kavi-prathama-paddhatim . . 15.33 . .
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ । । १५.३४ । ।
रामस्य मधुरम् वृत्तम् गायन्तौ मातुः अग्रतस् । तद्-वियोग-व्यथाम् किंचिद् शिथिलीचक्रतुः सुतौ । । १५।३४ । ।
rāmasya madhuram vṛttam gāyantau mātuḥ agratas . tad-viyoga-vyathām kiṃcid śithilīcakratuḥ sutau . . 15.34 . .
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः । । १५.३५ । ।
इतरे अपि रघोः वंश्याः त्रयः त्रेताग्नि-तेजसः । तद्-योगात् पतिवत्नीषु पत्नीषु आसन् द्वि-सूनवः । । १५।३५ । ।
itare api raghoḥ vaṃśyāḥ trayaḥ tretāgni-tejasaḥ . tad-yogāt pativatnīṣu patnīṣu āsan dvi-sūnavaḥ . . 15.35 . .
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः । । १५.३६ । ।
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुरा-विदिशे सून्वोः निदधे पूर्वज-उत्सुकः । । १५।३६ । ।
śatrughātini śatrughnaḥ subāhau ca bahuśrute . mathurā-vidiśe sūnvoḥ nidadhe pūrvaja-utsukaḥ . . 15.36 . .
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगाथ् । मैथिलीतनयोद्गीतनिष्पन्दमृगं आश्रमं । । १५.३७ । ।
भूयस् तपः-व्ययः मा भूत् वाल्मीकेः इति सः अत्यगाथ् । मैथिली-तनय-उद्गीत-निष्पन्द-मृगम् आश्रमम् । । १५।३७ । ।
bhūyas tapaḥ-vyayaḥ mā bhūt vālmīkeḥ iti saḥ atyagāth . maithilī-tanaya-udgīta-niṣpanda-mṛgam āśramam . . 15.37 . .
वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीं । लवणस्य वधात्पौरैरतिगौरवं ईक्षितः । । १५.३८ । ।
वशी विवेश च अयोध्याम् रथ्या-संस्कार-शोभिनीम् । लवणस्य वधात् पौरैः अति गौरवम् ईक्षितः । । १५।३८ । ।
vaśī viveśa ca ayodhyām rathyā-saṃskāra-śobhinīm . lavaṇasya vadhāt pauraiḥ ati gauravam īkṣitaḥ . . 15.38 . .
स ददर्श सभामध्ये सभासद्भिरुपस्थितं । रामं सीतापरित्यागादसामण्यपतिं भुवः । । १५.३९ । ।
स ददर्श सभा-मध्ये सभासद्भिः उपस्थितम् । रामम् सीता-परित्यागात् असामण्य-पतिम् भुवः । । १५।३९ । ।
sa dadarśa sabhā-madhye sabhāsadbhiḥ upasthitam . rāmam sītā-parityāgāt asāmaṇya-patim bhuvaḥ . . 15.39 . .
तं अभ्यनन्दत्प्रणतं लवणान्तकं अग्रजः । कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणं । । १५.४० । ।
तम् अभ्यनन्दत् प्रणतम् लवणान्तकम् अग्रजः । कालनेमि-वधात् प्रीतः तुराषाह् इव शार्ङ्गिणम् । । १५।४० । ।
tam abhyanandat praṇatam lavaṇāntakam agrajaḥ . kālanemi-vadhāt prītaḥ turāṣāh iva śārṅgiṇam . . 15.40 . .
स पृष्टः सर्वतो वार्त्तां आख्याद्राज्ञे न संततिं । प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनाथ् । । १५.४१ । ।
स पृष्टः सर्वतस् वार्त्ताम् आख्यात् राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले कवेः आद्यस्य शासनाथ् । । १५।४१ । ।
sa pṛṣṭaḥ sarvatas vārttām ākhyāt rājñe na saṃtatim . pratyarpayiṣyataḥ kāle kaveḥ ādyasya śāsanāth . . 15.41 . .
अथ जानपदो विप्रः शिशुं अप्राप्तयौवनं । अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः । । १५.४२ । ।
अथ जानपदः विप्रः शिशुम् अ प्राप्त-यौवनम् । द्वारि चक्रन्द भूपतेः । । १५।४२ । ।
atha jānapadaḥ vipraḥ śiśum a prāpta-yauvanam . dvāri cakranda bhūpateḥ . . 15.42 . .
शोचनीयासि वसुधे या त्वं दशरथाच्च्युता । रामहस्तं अनुप्राप्य कष्टात्कष्टतरं गता । । १५.४३ । ।
शोचनीया असि वसुधे या त्वम् दशरथात् च्युता । राम-हस्तम् अनुप्राप्य कष्टात् कष्टतरम् गता । । १५।४३ । ।
śocanīyā asi vasudhe yā tvam daśarathāt cyutā . rāma-hastam anuprāpya kaṣṭāt kaṣṭataram gatā . . 15.43 . .
श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः । न ह्यकालभवो मृत्युरिक्ष्वाकुपदं अस्पृशथ् । । १५.४४ । ।
श्रुत्वा तस्य शुचः हेतुम् गोप्ता जिह्राय राघवः । न हि अकाल-भवः मृत्युः इक्ष्वाकु-पदम् अस्पृशथ् । । १५।४४ । ।
śrutvā tasya śucaḥ hetum goptā jihrāya rāghavaḥ . na hi akāla-bhavaḥ mṛtyuḥ ikṣvāku-padam aspṛśath . . 15.44 . .
स मुहूर्तं सहस्वेति द्विजं आश्वास्य दुःखितं । यानं सस्मार कौबेरं वैवस्वतजिगीषया । । १५.४५ । ।
स मुहूर्तम् सहस्व इति द्विजम् आश्वास्य दुःखितम् । यानम् सस्मार कौबेरम् वैवस्वत-जिगीषया । । १५।४५ । ।
sa muhūrtam sahasva iti dvijam āśvāsya duḥkhitam . yānam sasmāra kauberam vaivasvata-jigīṣayā . . 15.45 . .
आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः । उच्चचार पुरस्तस्य गूढरूपा सरस्वती । । १५.४६ । ।
आत्त-शस्त्रः तत् अध्यास्य प्रतिस्थः स रघूद्वहः । उच्चचार पुरस् तस्य गूढ-रूपा सरस्वती । । १५।४६ । ।
ātta-śastraḥ tat adhyāsya pratisthaḥ sa raghūdvahaḥ . uccacāra puras tasya gūḍha-rūpā sarasvatī . . 15.46 . .
राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते । तं अन्विष्य प्रशमयेर्भवितासि ततः कृती । । १५.४७ । ।
राजन् प्रजासु ते कश्चिद् अपचारः प्रवर्तते । तम् अन्विष्य प्रशमयेः भवितासि ततस् कृती । । १५।४७ । ।
rājan prajāsu te kaścid apacāraḥ pravartate . tam anviṣya praśamayeḥ bhavitāsi tatas kṛtī . . 15.47 . .
इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियां । दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना । । १५.४८ । ।
इति आप्त-वचनात् रामः विनेष्यन् वर्ण-विक्रियाम् । दिशः पपात पत्त्रेण वेग-निष्कम्प-केतुना । । १५।४८ । ।
iti āpta-vacanāt rāmaḥ vineṣyan varṇa-vikriyām . diśaḥ papāta pattreṇa vega-niṣkampa-ketunā . . 15.48 . .
अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनं । ददर्श कंचिदैक्श्वाकस्तपस्यन्तं अध्ॐउखं । । १५.४९ । ।
अथ धूम-अभिताम्र-अक्षम् वृक्ष-आखा-अवलम्बिनम् । ददर्श कंचिद् ऐक्श्वाकः तपस्यन्तम् अधोंउखम् । । १५।४९ । ।
atha dhūma-abhitāmra-akṣam vṛkṣa-ākhā-avalambinam . dadarśa kaṃcid aikśvākaḥ tapasyantam adhoṃukham . . 15.49 . .
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनं । । १५.५० । ।
पृष्ट-नाम-अन्वयः राज्ञा स किल आचष्ट धूमपः । आत्मानम् शम्बुकम् नाम शूद्रम् सुर-पदार्थिनम् । । १५।५० । ।
pṛṣṭa-nāma-anvayaḥ rājñā sa kila ācaṣṭa dhūmapaḥ . ātmānam śambukam nāma śūdram sura-padārthinam . . 15.50 . .
तपस्यनधिकारित्वात्प्रजानां तं अघावहं । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे । । १५.५१ । ।
तपसि अनधिकारि-त्वात् प्रजानाम् तम् अघ-आवहम् । शीर्ष-छेद्यम् परिच्छिद्य नियन्ता शस्त्रम् आददे । । १५।५१ । ।
tapasi anadhikāri-tvāt prajānām tam agha-āvaham . śīrṣa-chedyam paricchidya niyantā śastram ādade . . 15.51 . .
स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं इव पङ्कजं । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरथ् । । १५.५२ । ।
स तद्-वक्त्रम् हिम-क्लिष्ट-किञ्जल्कम् इव पङ्कजम् । ज्योतिष्कणा-हत-श्मश्रु कण्ठ-नालात् अपाहरथ् । । १५।५२ । ।
sa tad-vaktram hima-kliṣṭa-kiñjalkam iva paṅkajam . jyotiṣkaṇā-hata-śmaśru kaṇṭha-nālāt apāharath . . 15.52 . .
कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिं । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना । । १५.५३ । ।
कृतण्डः स्वयम् राज्ञा लेभे शूद्रः सताम् गतिम् । तपसा दुश्चरेण अपि न स्व-मार्ग-विलङ्घिना । । १५।५३ । ।
kṛtaṇḍaḥ svayam rājñā lebhe śūdraḥ satām gatim . tapasā duścareṇa api na sva-mārga-vilaṅghinā . . 15.53 . .
रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना । । १५.५४ । ।
रघुनाथः अपि अगस्त्येन मार्ग-संदर्शित-आत्मना । महा-ओजसा संयुयुजे शरद्-काले इव इन्दुना । । १५।५४ । ।
raghunāthaḥ api agastyena mārga-saṃdarśita-ātmanā . mahā-ojasā saṃyuyuje śarad-kāle iva indunā . . 15.54 . .
कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहं । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयं । । १५.५५ । ।
कुम्भयोनिः अलंकारम् तस्मै दिव्य-परिग्रहम् । ददौ दत्तम् समुद्रेण पीतेन इव आत्म-निष्क्रयम् । । १५।५५ । ।
kumbhayoniḥ alaṃkāram tasmai divya-parigraham . dadau dattam samudreṇa pītena iva ātma-niṣkrayam . . 15.55 . .
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः । । १५.५६ । ।
तम् दधन् मैथिली-कण्ठ-निर्व्यापारेण बाहुना । पश्चात् निववृते रामः प्राक् परासुः द्विज-आत्मजः । । १५।५६ । ।
tam dadhan maithilī-kaṇṭha-nirvyāpāreṇa bāhunā . paścāt nivavṛte rāmaḥ prāk parāsuḥ dvija-ātmajaḥ . . 15.56 . .
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्या निवर्तयां आस त्रातुर्वैवस्वतादपि । । १५.५७ । ।
तस्य पूर्व-उदिताम् निन्दाम् द्विजः पुत्र-समागतः । स्तुत्या निवर्तयान् आस त्रातुः वैवस्वतात् अपि । । १५।५७ । ।
tasya pūrva-uditām nindām dvijaḥ putra-samāgataḥ . stutyā nivartayān āsa trātuḥ vaivasvatāt api . . 15.57 . .
तं अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः । मेघाः सस्यं इवाम्भोभिरभ्यवर्षन्नुपायनैः । । १५.५८ । ।
तम् अध्वराय मुक्त-अश्वम् रक्षः-कपि-नर-ईश्वराः । मेघाः सस्यम् इव अम्भोभिः अभ्यवर्षन् उपायनैः । । १५।५८ । ।
tam adhvarāya mukta-aśvam rakṣaḥ-kapi-nara-īśvarāḥ . meghāḥ sasyam iva ambhobhiḥ abhyavarṣan upāyanaiḥ . . 15.58 . .
दिग्भ्यो निमन्त्रिताश्चैनं अभिजग्मुर्महर्षयः । न भ्ॐआन्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि । । १५.५९ । ।
दिग्भ्यः निमन्त्रिताः च एनम् अभिजग्मुः महा-ऋषयः । न भोंआनि एव धिष्ण्यानि हित्वा ज्योतिः-मयानि अपि । । १५।५९ । ।
digbhyaḥ nimantritāḥ ca enam abhijagmuḥ mahā-ṛṣayaḥ . na bhoṃāni eva dhiṣṇyāni hitvā jyotiḥ-mayāni api . . 15.59 . .
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः । । १५.६० । ।
उपशल्य-निविष्टैः तैः चतुर्-द्वार-मुखी बभौ । अयोध्या सृष्ट-लोका इव सद्यस् पैतामही तनुः । । १५।६० । ।
upaśalya-niviṣṭaiḥ taiḥ catur-dvāra-mukhī babhau . ayodhyā sṛṣṭa-lokā iva sadyas paitāmahī tanuḥ . . 15.60 . .
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी । । १५.६१ । ।
श्लाघ्यः त्यागः अपि वैदेह्याः पत्युः प्राच्-वंश-वासिनः । अनन्य-हानेः तस्य आसीत् सा एव जाया हिरण्मयी । । १५।६१ । ।
ślāghyaḥ tyāgaḥ api vaidehyāḥ patyuḥ prāc-vaṃśa-vāsinaḥ . ananya-hāneḥ tasya āsīt sā eva jāyā hiraṇmayī . . 15.61 . .
विधेरधिकसंभारस्ततः प्रववृते मखः । आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः । । १५.६२ । ।
विधेः अधिक-संभारः ततस् प्रववृते मखः । आसन् यत्र क्रिया-विघ्नाः राक्षसाः एव रक्षिणः । । १५।६२ । ।
vidheḥ adhika-saṃbhāraḥ tatas pravavṛte makhaḥ . āsan yatra kriyā-vighnāḥ rākṣasāḥ eva rakṣiṇaḥ . . 15.62 . .
अथ प्राचेतसोपज्ञं रामायणं इतस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ । । १५.६३ । ।
अथ प्राचेतस-उपज्ञम् रामायणम् इतस् ततस् । मैथिलेयौ कुश-लवौ जगतुः गुरु-चोदितौ । । १५।६३ । ।
atha prācetasa-upajñam rāmāyaṇam itas tatas . maithileyau kuśa-lavau jagatuḥ guru-coditau . . 15.63 . .
वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ । किं तद्येन मनो हर्तुं अलं स्यातां न शृण्वतां । । १५.६४ । ।
वृत्तम् रामस्य वाल्मीकेः कृतिः तौ किंनर-स्वनौ । किम् तत् येन मनः हर्तुम् अलम् स्याताम् न शृण्वताम् । । १५।६४ । ।
vṛttam rāmasya vālmīkeḥ kṛtiḥ tau kiṃnara-svanau . kim tat yena manaḥ hartum alam syātām na śṛṇvatām . . 15.64 . .
रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितं । ददर्श सानुजो रामः शुश्राव च कुतूहली । । १५.६५ । ।
रूपे गीते च माधुर्यम् तयोः तद्-ज्ञैः निवेदितम् । ददर्श स अनुजः रामः शुश्राव च कुतूहली । । १५।६५ । ।
rūpe gīte ca mādhuryam tayoḥ tad-jñaiḥ niveditam . dadarśa sa anujaḥ rāmaḥ śuśrāva ca kutūhalī . . 15.65 . .
तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ । हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली । । १५.६६ । ।
तद्-गीत-श्रवण-एकाग्रा संसद्-अश्रु-मुखी बभौ । हिम-निस्यन्दिनी प्रातर् निवाग्ता इव वन-स्थली । । १५।६६ । ।
tad-gīta-śravaṇa-ekāgrā saṃsad-aśru-mukhī babhau . hima-nisyandinī prātar nivāgtā iva vana-sthalī . . 15.66 . .
वयोवेषविसंवादि रामस्य च तयोश्च सा । जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत । । १५.६७ । ।
वयः-वेष-विसंवादि रामस्य च तयोः च सा । जनता प्रेक्ष्य सादृश्यम् नाक्शिकम्पम् व्यतिष्ठत । । १५।६७ । ।
vayaḥ-veṣa-visaṃvādi rāmasya ca tayoḥ ca sā . janatā prekṣya sādṛśyam nākśikampam vyatiṣṭhata . . 15.67 . .
उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा । । १५.६८ । ।
उभयोः न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीति-दानेषु वीत-स्पृह-तया यथा । । १५।६८ । ।
ubhayoḥ na tathā lokaḥ prāvīṇyena visiṣmiye . nṛpateḥ prīti-dāneṣu vīta-spṛha-tayā yathā . . 15.68 . .
गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिं अशंसतां । । १५.६९ । ।
गेये केन विनीतौ वाम् कस्य च इयम् कवेः कृतिः । इति राज्ञा स्वयम् पृष्टौ तौ वाल्मीकिम् अशंसताम् । । १५।६९ । ।
geye kena vinītau vām kasya ca iyam kaveḥ kṛtiḥ . iti rājñā svayam pṛṣṭau tau vālmīkim aśaṃsatām . . 15.69 . .
अथ सावरजो रामः प्राचेतसं उपेयिवान् । उरिक्र्त्यात्मनो देहं राज्यं अस्मै न्यवेदयथ् । । १५.७० । ।
अथ स अवरजः रामः प्राचेतसम् उपेयिवान् । उरिक्र्त्या आत्मनः देहम् राज्यम् अस्मै न्यवेदयथ् । । १५।७० । ।
atha sa avarajaḥ rāmaḥ prācetasam upeyivān . urikrtyā ātmanaḥ deham rājyam asmai nyavedayath . . 15.70 . .
स तावाख्याय रामाय मैथिलेयौ तदात्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहं । । १५.७१ । ।
स तौ आख्याय रामाय मैथिलेयौ तद्-आत्मजौ । कविः कारुणिकः वव्रे सीतायाः संपरिग्रहम् । । १५।७१ । ।
sa tau ākhyāya rāmāya maithileyau tad-ātmajau . kaviḥ kāruṇikaḥ vavre sītāyāḥ saṃparigraham . . 15.71 . .
तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः । । १५.७२ । ।
तात शुद्धा समक्षम् नः स्नुषा ते जातवेदसि । दौरात्म्यात् रक्षसः ताम् तु न अत्रत्याः श्रद्दधुः प्रजाः । । १५।७२ । ।
tāta śuddhā samakṣam naḥ snuṣā te jātavedasi . daurātmyāt rakṣasaḥ tām tu na atratyāḥ śraddadhuḥ prajāḥ . . 15.72 . .
ताः स्वचारित्रं उद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीं एनां प्रतिपत्स्ये तदाज्ञया । । १५.७३ । ।
ताः स्व-चारित्रम् उद्दिश्य प्रत्याययतु मैथिली । ततस् पुत्रवतीम् एनाम् प्रतिपत्स्ये तद्-आज्ञया । । १५।७३ । ।
tāḥ sva-cāritram uddiśya pratyāyayatu maithilī . tatas putravatīm enām pratipatsye tad-ājñayā . . 15.73 . .
इति प्रतिश्रुते राज्ञा जानकीं आस्रमान्मुनिः । शिष्यैरानाययां आस स्वसिद्धिं नियमैरिव । । १५.७४ । ।
इति प्रतिश्रुते राज्ञा जानकीम् आ स्रमात् मुनिः । शिष्यैः आनाययाम् आस स्व-सिद्धिम् नियमैः इव । । १५।७४ । ।
iti pratiśrute rājñā jānakīm ā sramāt muniḥ . śiṣyaiḥ ānāyayām āsa sva-siddhim niyamaiḥ iva . . 15.74 . .
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविं आह्वाययां आस प्रस्तुतप्रतिपत्तये । । १५.७५ । ।
अन्येद्युस् अथ काकुत्स्थः संनिपात्य पुरौकसः । कविम् आह्वाययान् आस प्रस्तुत-प्रतिपत्तये । । १५।७५ । ।
anyedyus atha kākutsthaḥ saṃnipātya puraukasaḥ . kavim āhvāyayān āsa prastuta-pratipattaye . . 15.75 . .
स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया । ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः । । १५.७६ । ।
स्वर-संस्कारवत्या इव पुत्राभ्याम् सह सीतया । ऋचा इव उदर्चिषम् सूर्यम् रामम् मुनिः उपस्थितः । । १५।७६ । ।
svara-saṃskāravatyā iva putrābhyām saha sītayā . ṛcā iva udarciṣam sūryam rāmam muniḥ upasthitaḥ . . 15.76 . .
काषायपरिवीतेन स्वपदार्पितचक्षुषा । कविं आह्वाययां आस शान्तेन वपुषैव सा । । १५.७७ । ।
काषाय-परिवीतेन स्व-पद-अर्पित-चक्षुषा । कविम् आह्वाययाम् आस शान्तेन वपुषा एव सा । । १५।७७ । ।
kāṣāya-parivītena sva-pada-arpita-cakṣuṣā . kavim āhvāyayām āsa śāntena vapuṣā eva sā . . 15.77 . .
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः । । १५.७८ । ।
जनाः तद्-आलोक-पथात् प्रतिसंहृत-चक्षुषः । तस्थुः ते अवाङ्मुखाः सर्वे फलिताः इव स आलयः । । १५।७८ । ।
janāḥ tad-āloka-pathāt pratisaṃhṛta-cakṣuṣaḥ . tasthuḥ te avāṅmukhāḥ sarve phalitāḥ iva sa ālayaḥ . . 15.78 . .
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से स्ववृत्ते लोकं इत्यशाथ् । । १५.७९ । ।
ताम् दृष्टि-विषये भर्तुः मुनिः आस्थित-विष्टरः । कुरु निःसंशयम् वत्से स्व-वृत्ते लोकम् इति अशाथ् । । १५।७९ । ।
tām dṛṣṭi-viṣaye bhartuḥ muniḥ āsthita-viṣṭaraḥ . kuru niḥsaṃśayam vatse sva-vṛtte lokam iti aśāth . . 15.79 . .
अथ वाल्मीक्शिष्येण पुण्यं आवर्जितं पयः । आचम्योदीरयां आस सीता सत्यां सरस्वतीं । । १५.८० । ।
अथ वाल्मीक्-शिष्येण पुण्यम् आवर्जितम् पयः । आचम्य उदीरयन् आस सीता सत्याम् सरस्वतीम् । । १५।८० । ।
atha vālmīk-śiṣyeṇa puṇyam āvarjitam payaḥ . ācamya udīrayan āsa sītā satyām sarasvatīm . . 15.80 . .
वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि मां अन्तर्धातुं अर्हसि । । १५.८१ । ।
वाच्-मनः-कर्मभिः पत्यौ व्यभिचारः यथा न मे । तथा विश्वंभरे देवि माम् अन्तर्धातुम् अर्हसि । । १५।८१ । ।
vāc-manaḥ-karmabhiḥ patyau vyabhicāraḥ yathā na me . tathā viśvaṃbhare devi mām antardhātum arhasi . . 15.81 . .
एवं उक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदं इव ज्योतिः प्रभामण्डलं उद्ययौ । । १५.८२ । ।
एवम् उक्ते तया साध्व्या रन्ध्रात् सद्योभवात् भुवः । शातह्रदम् इव ज्योतिः प्रभा-मण्डलम् उद्ययौ । । १५।८२ । ।
evam ukte tayā sādhvyā randhrāt sadyobhavāt bhuvaḥ . śātahradam iva jyotiḥ prabhā-maṇḍalam udyayau . . 15.82 . .
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा । । १५.८३ । ।
तत्र नाग-फण-उत्क्षिप्त-सिंहासन-निषेदुषी । समुद्ररशना साक्षात् प्रादुरासीत् वसुंधरा । । १५।८३ । ।
tatra nāga-phaṇa-utkṣipta-siṃhāsana-niṣeduṣī . samudraraśanā sākṣāt prādurāsīt vasuṃdharā . . 15.83 . .
सा सीतां अङ्कं आरोप्य भर्तरि प्रहितेक्षणां । मा मेति व्याहरत्येव तस्मिन्पातालं अभ्यगाथ् । । १५.८४ । ।
सा सीताम् अङ्कम् आरोप्य भर्तरि प्रहित-ईक्षणाम् । मा मा इति व्याहरति एव तस्मिन् पातालम् अभ्यगाथ् । । १५।८४ । ।
sā sītām aṅkam āropya bhartari prahita-īkṣaṇām . mā mā iti vyāharati eva tasmin pātālam abhyagāth . . 15.84 . .
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः । गुरुर्विधिबलापेक्षी शमयां आस धन्विनः । । १५.८५ । ।
धरायाम् तस्य संरम्भम् सीता-प्रत्यर्पण-एषिणैः । गुरुः विधि-बल-अपेक्षी आस धन्विनः । । १५।८५ । ।
dharāyām tasya saṃrambham sītā-pratyarpaṇa-eṣiṇaiḥ . guruḥ vidhi-bala-apekṣī āsa dhanvinaḥ . . 15.85 . .
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः । । १५.८६ । ।
ऋषीन् विसृज्य यज्ञ-अन्ते सुहृदः च पुरस्कृतान् । रामः सीता-गतम् स्नेहम् निदधे तद्-अपत्ययोः । । १५।८६ । ।
ṛṣīn visṛjya yajña-ante suhṛdaḥ ca puraskṛtān . rāmaḥ sītā-gatam sneham nidadhe tad-apatyayoḥ . . 15.86 . .
युधाजितस्तु संदेशात्स देश सिन्धुनामकं । ददौ दत्तप्रभावाय भरताय धृतप्रजः । । १५.८७ । ।
युधाजितः तु संदेशात् स देश सिन्धु-नामकम् । ददौ दत्त-प्रभावाय भरताय धृत-प्रजः । । १५।८७ । ।
yudhājitaḥ tu saṃdeśāt sa deśa sindhu-nāmakam . dadau datta-prabhāvāya bharatāya dhṛta-prajaḥ . . 15.87 . .
भरतस्तत्र गन्धर्वान्युधि निजित्य केवलं । आतोद्यं ग्राहयां आस समत्याजयदायुधं । । १५.८८ । ।
भरतः तत्र गन्धर्वान् युधि निजित्य केवलम् । आतोद्यम् ग्राहयान् आस समत्याजयत् आयुधम् । । १५।८८ । ।
bharataḥ tatra gandharvān yudhi nijitya kevalam . ātodyam grāhayān āsa samatyājayat āyudham . . 15.88 . .
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकं अगात्पुनः । । १५.८९ । ।
स तक्ष-पुष्कलौ पुत्रौ राजधान्योः तद्-आख्ययोः । अभिषिच्य अभिषेक-अर्हौ राम-अन्तिकम् अगात् पुनर् । । १५।८९ । ।
sa takṣa-puṣkalau putrau rājadhānyoḥ tad-ākhyayoḥ . abhiṣicya abhiṣeka-arhau rāma-antikam agāt punar . . 15.89 . .
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ । । १५.९० । ।
अङ्गदम् चन्द्रकेतुम् च लक्ष्मणः अपि आत्मसंभवौ । शासनात् रघुनाथस्य चक्रे कारापथ-ईशावरौ । । १५।९० । ।
aṅgadam candraketum ca lakṣmaṇaḥ api ātmasaṃbhavau . śāsanāt raghunāthasya cakre kārāpatha-īśāvarau . . 15.90 . .
इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमाथ् । । १५.९१ । ।
इति आरोपित-पुत्राः ते जननीनाम् जनेश्वराः । भर्तृ-लोक-प्रपन्नानाम् निवापान् विदधुः । । १५।९१ । ।
iti āropita-putrāḥ te jananīnām janeśvarāḥ . bhartṛ-loka-prapannānām nivāpān vidadhuḥ . . 15.91 . .
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवं । रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति । । १५.९२ । ।
उपेत्य मुनि-वेषः अथ कालः प्रोवाच राघवम् । रहः-संवादिनौ पास्येत् आवाम् यः तम् त्यजेः इति । । १५।९२ । ।
upetya muni-veṣaḥ atha kālaḥ provāca rāghavam . rahaḥ-saṃvādinau pāsyet āvām yaḥ tam tyajeḥ iti . . 15.92 . .
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवं अध्यास्व शासनात्परमेष्ठिनः । । १५.९३ । ।
तथा इति प्रतिपन्नाय विवृत-आत्मा नृपाय सः । आचख्यौ दिवम् अध्यास्व शासनात् परमेष्ठिनः । । १५।९३ । ।
tathā iti pratipannāya vivṛta-ātmā nṛpāya saḥ . ācakhyau divam adhyāsva śāsanāt parameṣṭhinaḥ . . 15.93 . .
विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनथ् । भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः । । १५.९४ । ।
विद्वान् अपि तयोः द्वाःस्तहः समयम् लक्ष्मणः । भीतः दुर्वाससः शापात् राम-संदर्शन-अर्थिनः । । १५।९४ । ।
vidvān api tayoḥ dvāḥstahaḥ samayam lakṣmaṇaḥ . bhītaḥ durvāsasaḥ śāpāt rāma-saṃdarśana-arthinaḥ . . 15.94 . .
स गत्वा सरयूतीरं देहत्यागेन योगविथ् । चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः । । १५.९५ । ।
स गत्वा सरयू-तीरम् देहत्यागेन । चकार वितथाम् भ्रातुः प्रतिज्ञाम् पूर्व-जन्मनः । । १५।९५ । ।
sa gatvā sarayū-tīram dehatyāgena . cakāra vitathām bhrātuḥ pratijñām pūrva-janmanaḥ . . 15.95 . .
तस्मिन्नात्मचतुर्भागे प्राङ्नाकं अधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव । । १५.९६ । ।
तस्मिन् आत्म-चतुर्भागे प्राच्-नाकम् अधितस्थुषि । राघवः शिथिलम् तस्थौ भुवि धर्मः त्रिपाद् इव । । १५।९६ । ।
tasmin ātma-caturbhāge prāc-nākam adhitasthuṣi . rāghavaḥ śithilam tasthau bhuvi dharmaḥ tripād iva . . 15.96 . .
स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशं । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवं । । १५.९७ । ।
स निवेश्य कुशावत्याम् रिपु-नाग-अङ्कुषम् कुशम् । शरावत्याम् सताम् सूक्तैः जनित-अश्रु-लवम् लवम् । । १५।९७ । ।
sa niveśya kuśāvatyām ripu-nāga-aṅkuṣam kuśam . śarāvatyām satām sūktaiḥ janita-aśru-lavam lavam . . 15.97 . .
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जं अयोध्यया । । १५.९८ । ।
उदक् प्रतस्थे स्थिर-धीः स अनुजः अग्नि-पुरःसरः । अन्वितः पति-वात्सल्यात् गृह-वर्जम् अयोध्यया । । १५।९८ । ।
udak pratasthe sthira-dhīḥ sa anujaḥ agni-puraḥsaraḥ . anvitaḥ pati-vātsalyāt gṛha-varjam ayodhyayā . . 15.98 . .
जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः । । १५.९९ । ।
जगृहुः तस्य चित्त-ज्ञाः पदवीम् हरि-राक्षसाः । कदम्ब-मुकुल-स्थूलैः अभिवृष्टम् प्रजा-अश्रुभिः । । १५।९९ । ।
jagṛhuḥ tasya citta-jñāḥ padavīm hari-rākṣasāḥ . kadamba-mukula-sthūlaiḥ abhivṛṣṭam prajā-aśrubhiḥ . . 15.99 . .
उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनां । । १५.१०० । ।
उपस्थित-विमानेन तेन भक्त-अनुकम्पिना । चक्रे त्रिदिव-निःष्रेणिः सरयूः अनुयायिनाम् । । १५।१०० । ।
upasthita-vimānena tena bhakta-anukampinā . cakre tridiva-niḥṣreṇiḥ sarayūḥ anuyāyinām . . 15.100 . .
यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जतां । अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे । । १५.१०१ । ।
यत् गो-प्रतर-कल्पः अभुत् संमर्दः तत्र मज्जताम् । अतस् तद्-आख्यया तीर्थम् पावनम् भुवि पप्रथे । । १५।१०१ । ।
yat go-pratara-kalpaḥ abhut saṃmardaḥ tatra majjatām . atas tad-ākhyayā tīrtham pāvanam bhuvi paprathe . . 15.101 . .
स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरं अकल्पयथ् । । १५.१०२ । ।
स विभुः विबुध-अंशेषु प्रतिपन्न-आत्म-मूर्तिषु । त्रिदशीभूत-पौराणाम् स्वर्ग-अन्तरम् अकल्पयथ् । । १५।१०२ । ।
sa vibhuḥ vibudha-aṃśeṣu pratipanna-ātma-mūrtiṣu . tridaśībhūta-paurāṇām svarga-antaram akalpayath . . 15.102 . .
निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुं अविशत्सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयं इव गिरौ दक्षिणे चोत्तरे च । । १५.१०३ । ।
निर्वर्त्य एवम् दशमुख-शिरः-छेद-कार्यम् सुराणाम् विष्वक्सेनः स्व-तनुम् अविशत् सर्व-लोक-प्रतिष्ठाम् । लङ्का-नाथम् पवनतनयम् च उभयम् स्थापयित्वा कीर्ति-स्तम्भ-द्वयम् इव गिरौ दक्षिणे च उत्तरे च । । १५।१०३ । ।
nirvartya evam daśamukha-śiraḥ-cheda-kāryam surāṇām viṣvaksenaḥ sva-tanum aviśat sarva-loka-pratiṣṭhām . laṅkā-nātham pavanatanayam ca ubhayam sthāpayitvā kīrti-stambha-dvayam iva girau dakṣiṇe ca uttare ca . . 15.103 . .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In